तोटकाष्टक तोताकाष्टकम् - ॥ टोटकाष्टकं ॥ totakashtak totakashtakam

तोटकाष्टक / तोटकाष्टकम् - ॥ तोटकाष्टकं ॥ totakashtak totakashtakam

विदिताखिलशास्त्रसुधाजलधे
महितोपनिषत् कथितअर्थनिधे।
हृदये कलये विमलं चरणं
भव शंकर देशिक मे शरणम् ॥ ॥

करुणावरुणालय पालय मां
भवसागरदुःखविदूनहृदम्।
रचयाखिलदर्शनतत्त्वविदं
भव शंकर देशिक मे शरणम् ॥ 2॥

भवता जनता सुहिता भविता
निजबोधविचारण चारुमते।
कलयेश्वरजीवविवेकविदं
भव शंकर देशिक मे शरणम् ॥ 3॥

भव एव भवनीति मे नितरां
समजायत् चेतसि कौतुकिता।
मम वारय मोहमहाजलधिं
भव शंकर देशिक मे शरणम् ॥ 4॥

सुकृतेऽधिकृते बहुधा भवतो
भविता समदर्शनलालसता।
अतिदिनमिमं परिपालय मां
भव शंकर देशिक मे शरणम् ॥ 5॥

जगतीमवितुं कलिताकृतयो
विचरन्ति महामहशश्लतः।
अहिमांशुरिवात्र विभासि गुरो
भव शंकर देशिक मे शरणम् ॥ 6॥

गुरुपुंगव पुंगवकेतन ते
समतामयतां नहि कोऽपि सुधीः।
शरणागतवत्सल तत्त्वनिधे
भव शंकर देशिक मे शरणम् ॥ 7॥

विदिता न मया विषदैतकला
न च किंचन कांचनमस्ति गुरो।
द्रुतमेव विदेहि कृपां सहजां
भव शंकर देशिक मे शरणम् ॥ 8॥


Comments

Popular posts from this blog