Posts

Showing posts with the label श्रीवेङ्कटेशस्तोत्रम् vyankatesh strotr stotram venktesh stotr

श्रीवेङ्कटेशस्तोत्रम् vyankatesh strotr stotram venktesh stotr

॥ श्रीवेङ्कटेशस्तोत्रम् ॥ वेङ्कटेशो वासुदेवः प्रद्युम्नोऽमितविक्रमः सङ्कर्षणोऽनिरुद्धश्च शेषाद्रिपतिरेव च ॥ १ ॥ जनार्दनः पद्मनाभो वेङ्कटाचलवासनः । सृष्टिकर्ता जगन्नाथो माधवो भक्तवत्सलः ॥ २॥ गोविन्दो गोपतिः कृष्णः केशवो गरुडध्वजः । वराहो वामनश्चैव नारायण अधोक्षजः ॥ ३ ॥ श्रीधरः पुण्डरीकाक्षः सर्वदेवस्तुतो हरिः । श्रीनृसिंहो महासिंहः सूत्राकारः पुरातनः ॥ ४ ॥ रमानाथो महीभर्ता भूधरः पुरुषोत्तमः चोळपुत्रप्रियः शान्तो ब्रह्मादीनां वरप्रदः ॥ ५॥ श्रीनिधिः सर्वभूतानां भयकृद्भयनाशनः श्रीरामो रामभद्रश्च भवबन्धैकमोचकः ॥ ६॥ भूतावासो गिरावासः श्रीनिवासः श्रियः पतिः । अच्युतानन्तगोविन्दो विष्णुर्वेङ्कटनायकः ॥ ७ ॥ सर्वदेवैकशरणं सर्वदेवैकदैवतम् । समस्तदेवकवचं सर्वदेवशिखामणिः ॥ ८ ॥ इतीदं कीर्तितं यस्य विष्णोरमिततेजसः । त्रिकाले यः पठेन्नित्यं पापं तस्य न विद्यते ॥ ९॥ राजद्वारे पठेद्धोरे सङ्ग्रामे रिपुसङ्कटे । भूतसर्पपिशाचादिभयं नास्ति कदाचन ॥ १० ॥ अपुत्रो लभते पुत्रान् निर्धनो धनवान् भवेत् रोगार्तो मुच्यते रोगाद् बद्धो मुच्येत बन्धनात् ॥ ११॥ यद्यदिष्टतमं लोके तत्तत्प्राप्नोत्यसंशयः । ऐश्वर्यं राजसम्मानं ...