VISHNU SAHASRANAMAM STOTRAM LYRICS विष्णु सहस्त्र नाम स्तोत्र
VISHNU SAHASRANAMAM STOTRAM LYRICS विष्णु सहस्त्र नाम स्तोत्र श्री विष्णु सहस्र नाम स्तोत्रम् ॐ नमो भगवते वासुदेवाय नम: ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ 1 ॥ यस्यद्विरदवक्त्राद्याः पारिषद्याः परः शतम् । विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥ 2 ॥ पूर्व पीठिका व्यासं वसिष्ठ नप्तारं शक्तेः पौत्रमकल्मषम् । पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ 3 ॥ व्यासाय विष्णु रूपाय व्यासरूपाय विष्णवे । नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥ 4 ॥ अविकाराय शुद्धाय नित्याय परमात्मने । सदैक रूप रूपाय विष्णवे सर्वजिष्णवे ॥ 5 ॥ यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् । विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥ 6 ॥ ॐ नमो विष्णवे प्रभविष्णवे । श्री वैशम्पायन उवाच श्रुत्वा धर्मा नशेषेण पावनानि च सर्वशः । युधिष्ठिरः शान्तनवं पुनरेवाभ्य भाषत ॥ 7 ॥ युधिष्ठिर उवाच किमेकं दैवतं लोके किं वाऽप्येकं परायणं स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् ॥ 8 ॥ को धर्मः सर्वधर्माणां भवतः परमो मतः । किं जपन्मुच्यते जन्तुर्जन्मसंसार बन्धना...