Posts

Showing posts with the label shri vyankatesh stotra

shri vyankatesh stotra

  ॥ श्रीवेङ्कटेशस्तोत्रम् ॥ वेङ्कटेशो वासुदेवः प्रद्युम्नोऽमितविक्रमः । सङ्कर्षणोऽनिरुद्धश्च शेषाद्रिपतिरेव च ॥ १॥ जनार्दनः पद्मनाभो वेङ्कटाचलवासनः । सृष्टिकर्ता जगन्नाथो माधवो भक्तवत्सलः॥ २॥ गोविन्दो गोपतिः कृष्णः केशवो गरुडध्वजः । वराहो वामनश्चैव नारायण अधोक्षजः ॥ ३॥ श्रीधरः पुण्डरीकाक्षः सर्वदेवस्तुतो हरिः । श्रीनृसिंहो महासिंहः सूत्राकारः पुरातनः ॥ ४॥ रमानाथो महीभर्ता भूधरः पुरुषोत्तमः । चोळपुत्रप्रियः शान्तो ब्रह्मादीनां वरप्रदः ॥ ५॥ श्रीनिधिः सर्वभूतानां भयकृद्भयनाशनः । श्रीरामो रामभद्रश्च भवबन्धैकमोचकः ॥ ६॥ भूतावासो गिरावासः श्रीनिवासः श्रियःपतिः । अच्युतानन्तगोविन्दो विष्णुर्वेङ्कटनायकः ॥ ७॥ सर्वदेवैकशरणं सर्वदेवैकदैवतम् । समस्तदेवकवचं सर्वदेवशिखामणिः ॥ ८॥ इतीदं कीर्तितं यस्य विष्णोरमिततेजसः । त्रिकाले यः पठेन्नित्यं पापं तस्य न विद्यते॥ ९॥ राजद्वारे पठेद्घोरे सङ्ग्रामे रिपुसङ्कटे । भूतसर्पपिशाचादिभयं नास्ति कदाचन ॥ १०॥ अपुत्रो लभते पुत्रान् निर्ध...