Posts

Showing posts with the label navagraha stotra

navagraha stotra

अथ नवग्रह स्तोत्र जपाकुसुम संकाशं काश्यपेयं महदद्युतिम् | तमोरिंसर्वपापघ्नं प्रणतोSस्मि दिवाकरम् || १ || दधिशंखतुषाराभं क्षीरोदार्णव संभवम् | नमामि शशिनं सोमं शंभोर्मुकुट भूषणम् || २ || धरणीगर्भ संभूतं विद्युत्कांति समप्रभम् | कुमारं शक्तिहस्तं तं मंगलं प्रणाम्यहम् || ३ || प्रियंगुकलिकाश्यामं रुपेणाप्रतिमं बुधम् | सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् || ४ || देवानांच ऋषीनांच गुरुं कांचन सन्निभम् | बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् || ५ || हिमकुंद मृणालाभं दैत्यानां परमं गुरुम् | सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहम् || ६ || नीलांजन समाभासं रविपुत्रं यमाग्रजम् | छायामार्तंड संभूतं तं नमामि शनैश्चरम् || ७ || अर्धकायं महावीर्यं चंद्रादित्य विमर्दनम् | सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम् || ८ || पलाशपुष्पसंकाशं तारकाग्रह मस्तकम् | रौद्रंरौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् || ९ || इति श्रीव्यासमुखोग्दीतम् यः पठेत् सुसमाहितः | दिवा वा यदि वा रात्रौ विघ्न शांतिर्भविष्यति || १० || नरनारी नृपाणांच भवेत् दुःस्वप्ननाशनम् | ऐश्वर्यमतुलं तेषां आरोग्यं पुष्टिवर्धनम् || ११ |...