ram raksha stotra
॥ श्री गणेशाय नमः ॥ अस्य श्रीरामरक्षास्तोत्रमंत्रस्य । बुधकौशिकऋषिः। श्रीसीतारामचन्द्रो देवता । अनुष्टुप् छन्दः । सीता शक्तिः। श्रीमद् हनुमान् कीलकम् । श्रीरामचन्द्रप्रीत्यर्थे जपे विनियोगः । अथ ध्यानम् । ध्यायेदाजानुबाहुं धृतशरधनुषं । बद्धपद्मासनस्थम् । पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् । वामाङ्कारूढसीतामुखकमलमिलल्लोचनं नीरदाभम् । नानालङ्कारदीप्तं दधतमुरुजटामण्डनं रामचन्द्रम् ॥ इति ध्यानम् । चरितं रघुनाथस्य शतकोटिप्रविस्तरम् । एकैकमक्षरं पुंसां महापातकनाशनम् ॥ १ ॥ ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् । जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम् ॥ २ ॥ सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम् । स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् ॥ ३॥ रामरक्षाम् पठेत् प्राज्ञः पापघ्नीं सर्वकामदाम् । 'शिरो' मे राघवः पातु 'भालं' दशरथात्मजः ॥ ४ ॥ कौसल्येयो 'दृशौ' पातु विश्वामित्रप्रियः 'श्रृती' । 'घ्राणं' पातु मखत्राता 'मुखं' सौमित्रिवत्सलः ॥ ५ ॥ 'जिह्वां' विद्यानिधिः पातु 'कण्ठं' भरतवन्दितः । 'स्कन्धौ' दिव्यायुधः पातु 'भुज...