श्रीवेङ्कटेशस्तोत्रम् vyankatesh strotr stotram venktesh stotr

॥ श्रीवेङ्कटेशस्तोत्रम् ॥

वेङ्कटेशो वासुदेवः प्रद्युम्नोऽमितविक्रमः सङ्कर्षणोऽनिरुद्धश्च शेषाद्रिपतिरेव च ॥ १ ॥

जनार्दनः पद्मनाभो वेङ्कटाचलवासनः । सृष्टिकर्ता जगन्नाथो माधवो भक्तवत्सलः ॥ २॥

गोविन्दो गोपतिः कृष्णः केशवो गरुडध्वजः । वराहो वामनश्चैव नारायण अधोक्षजः ॥ ३ ॥

श्रीधरः पुण्डरीकाक्षः सर्वदेवस्तुतो हरिः । श्रीनृसिंहो महासिंहः सूत्राकारः पुरातनः ॥ ४ ॥

रमानाथो महीभर्ता भूधरः पुरुषोत्तमः चोळपुत्रप्रियः शान्तो ब्रह्मादीनां वरप्रदः ॥ ५॥

श्रीनिधिः सर्वभूतानां भयकृद्भयनाशनः श्रीरामो रामभद्रश्च भवबन्धैकमोचकः ॥ ६॥

भूतावासो गिरावासः श्रीनिवासः श्रियः पतिः । अच्युतानन्तगोविन्दो विष्णुर्वेङ्कटनायकः ॥ ७ ॥

सर्वदेवैकशरणं सर्वदेवैकदैवतम् । समस्तदेवकवचं सर्वदेवशिखामणिः ॥ ८ ॥

इतीदं कीर्तितं यस्य विष्णोरमिततेजसः । त्रिकाले यः पठेन्नित्यं पापं तस्य न विद्यते ॥ ९॥

राजद्वारे पठेद्धोरे सङ्ग्रामे रिपुसङ्कटे । भूतसर्पपिशाचादिभयं नास्ति कदाचन ॥ १० ॥

अपुत्रो लभते पुत्रान् निर्धनो धनवान् भवेत् रोगार्तो मुच्यते रोगाद् बद्धो मुच्येत बन्धनात् ॥

११॥

यद्यदिष्टतमं लोके तत्तत्प्राप्नोत्यसंशयः । ऐश्वर्यं राजसम्मानं भक्तिमुक्तिफलप्रदम् ॥ १२ ॥

विष्णोर्लोकैकसोपानं सर्वदुःखैकनाशनम् सर्वैश्वर्यप्रदं नृणां सर्वमङ्गलकारकम् ॥ १३॥

मायावी परमानन्दं त्यक्त्वा वैकुण्ठमुत्तमम् । स्वामिपुष्करिणीतीरे रमया सह मोदते ॥ १४॥

कल्याणाद्भुतगात्राय कामितार्थप्रदायिने । श्रीमद्वेङ्कटनाथाय श्रीनिवासाय ते नमः ॥ १५ ॥

वेङ्कटाद्रिसमं स्थानं ब्रह्माण्डे नास्ति किञ्चन । वेङ्कटेशसमो देवो न भूतो न भविष्यति ॥ १६॥

॥ इति ब्रह्माण्डपुराणे ब्रह्मनारदसंवादे श्रीवेङ्कटेशस्तोत्रं सम्पूर्णम् ॥

Comments

Popular posts from this blog